|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.126. अध्यायः 126
Mahabharata - Shanti Parva - Chapter Topics
तापसैः स्वाश्रममुपागतस्य सुमित्रस्य पूजनम्॥ 1॥ ततः सुमित्रेण तापसान्प्रति आशान्तरिक्षयोर्ज्यायस्तरं किमिति प्रश्नः॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-126-0x(5692)(69798)
प्रविश्य च महारण्यं तापसानामथाश्रमम्।
आससाद ततो राजा श्रान्तश्चोपाविशत्तदा॥ 12-126-1(69799)
तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा।
समेत्य ऋषयस्तस्मै पूजां चक्रुर्यथाविधि॥ 12-126-2(69800)
स पूजामृषिभिर्दत्तां प्रतिगृह्य नराधिपः।
अपृच्छत्तापसान्सर्वांस्तपोवृद्धिमनुत्तमाम्॥ 12-126-3(69801)
ते तस्य राज्ञो वचनं प्रतिगृह्य तपोधनाः।
ऋषयो राजशार्दूलमपृच्छंस्तत्प्रयोजनम्॥ 12-126-4(69802)
केन भद्रमुखार्थेन तपोवनमुपागतः।
पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर॥ 12-126-5(69803)
एतदिच्छामहे श्रोतुं कुतः प्राप्तोऽसि मानद।
कस्मिन्कुले तु जातस्त्वं किंनामा चासि ब्रूहि नः॥ 12-126-6(69804)
ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ।
आचख्यौ तद्यथावृत्तं परिचर्यां च भारत॥ 12-126-7(69805)
हैहयानां कुले जातः सुमित्रोऽमित्रकर्शनः।
चरामि मृगयूथानि निघ्रन्बाणैः सहस्रशः॥ 12-126-8(69806)
बलेन महता ब्रह्मन्सामात्यः सावरोधकः।
मृगस्तु विद्धो बाणेन मया सरति शल्यवान्॥ 12-126-9(69807)
तं द्रवन्तमनुप्राप्तो वनमेतद्यदृच्छया।
भवत्सकाशं नष्टश्रीर्हताशः श्रमकर्शितः॥ 12-126-10(69808)
किंनु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः।
भवतामाश्रमं प्राप्तो हताशो भ्रष्टलक्षणः॥ 12-126-11(69809)
न राजलक्षणत्यागः पुनरस्य तपोधनाः।
दुःखं करोति मे तीव्रं यथाऽऽशा विहता मम॥ 12-126-12(69810)
हिमवान्वा महाशैलः समुद्रो वा महोदधिः।
महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा॥ 12-126-13(69811)
आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः।
भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः॥ 12-126-14(69812)
भवन्तः सुमहाभागास्तस्मात्पृच्छामि संशयम्।
आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा॥ 12-126-15(69813)
किंनु ज्यायस्तरं लोके महत्त्वे प्रतिभाति वः।
एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम्॥ 12-126-16(69814)
यदि गुह्यं न वो नित्यं तदा प्रब्रूत मा चिरम्।
न हि गुह्यतमं श्रोतुमिच्छामि द्विजपुङ्गवाः॥ 12-126-17(69815)
भवत्तपोविघातो वा येन स्याद्विरमे ततः।
यदि वाऽस्ति कथायोगो योऽयं प्रश्नो मयेरितः॥ 12-126-18(69816)
एतत्कारणसामर्थ्यं श्रोतुमिच्छामि तत्त्वतः।
भवन्तोऽपि तपोनित्या ब्रूयुरेतत्समाहिताः॥ ॥ 12-126-19(69817)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षङ्विंशत्यधिकशततमोऽध्यायः॥ 126॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-126-5 हे भद्रमुख॥ 12-126-12 आशा मृगाशा॥ 12-126-13 हिमवानुच्चत्वेन महोदधिर्विततत्वेन च गगनान्तं नान्वपद्येताम्। तस्य ततोऽप्युच्चत्वाद्विततत्वाच्च॥ 12-126-15 आशावान् आशाया महत्त्वेन तद्वतोऽपि महत्त्वमन्तरिक्षवत्॥ 12-126-17 यद्यगुह्यं तपोनित्यं मम ब्रूतेह माचिरमिति थ.द.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|